(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.81. अध्यायः 081
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन द्यूतसभायां स्वानुभूतदुःसहदुःखमभिनिवेद्य रुदन्तीं द्रौपदींप्रति सुयोधनादिनिधनप्रतिज्ञानपूर्वकं समाश्वासनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-81-0x(3634)(34629)
राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम्।
कृष्णा दाशार्हमासीनमब्रवीच्छोककर्शिता ॥ 5-81-1(34630)
सुता द्रुपदराजस्य स्वसितायतमूर्धजा ।
संपूज्य सहदेवं च सात्यकिं च महारथम् ॥ 5-81-2(34631)
भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः ।
अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ॥ 5-81-3(34632)
विदितं ते महाबाहो धर्मज्ञ मधुसूदन ।
यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात्॥ 5-81-4(34633)
धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन।
यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः ॥ 5-81-5(34634)
युधिष्ठिरस्य दाशार्ह तच्चापि विदितं तव।
यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया ॥ 5-81-6(34635)
पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते।
अविस्थलं वृकस्थलं माकन्दीं वारणावतम् ॥ 5-81-7(34636)
अवसानं महाबाहो कंचिदेकं च पञ्चमम्।
इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ॥ 5-81-8(34637)
न चापि ह्यकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः ।
युधिष्ठिरस्य दाशार्ह श्रीमतः सन्धिमिच्छतः ॥ 5-81-9(34638)
अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः।
सन्धिमिच्छेन्न कर्तव्यं तत्र गत्वा कथंचन ॥ 5-81-10(34639)
शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह।
धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् ॥ 5-81-11(34640)
न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन ।
तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ॥ 5-81-12(34641)
साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः।
योक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ॥ 5-81-13(34642)
तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत।
त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ॥ 5-81-14(34643)
एतत्समर्थं पार्थानां तव चैव यशस्करम्।
क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् ॥ 5-81-15(34644)
क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः।
अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ॥ 5-81-16(34645)
अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात्।
गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् ॥ 5-81-17(34646)
यथाऽवध्ये वध्यमाने भवेद्दोषो जनार्दन ।
स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥ 5-81-18(34647)
यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु।
पाण्डवैः सह दाशर्हैः सृञ्जयैश्च ससैनिकैः ॥ 5-81-19(34648)
पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन।
का तु सीमन्तिनी मादृकं पृथिव्यामस्ति केशव ॥ 5-81-20(34649)
सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता।
धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ॥ 5-81-21(34650)
आजमूढकुलं प्राप्त स्नुषा पाण्डोर्महात्मनः ।
महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ॥ 5-81-22(34651)
सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः ।
अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ॥ 5-81-23(34652)
साऽहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता।
पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ॥ 5-81-24(34653)
जीवस्तु पाण्डुपुत्रेषु पञ्चालेष्वथ वृष्णिषु।
दासीभाताऽस्मि पापानां सभामध्ये व्यवस्थिता ॥ 5-81-25(34654)
निरमर्षेष्वचेष्टेषु प्रेक्ष्यमाणेषु पाण्डुषु ।
पाहि मामिति गोविन्द मनसा चिन्तितोसि मे ॥ 5-81-26(34655)
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत्।
वरं वृणीष्व पाञ्चालि वरार्हाऽसि मता मम ॥ 5-81-27(34656)
अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति।
मयोक्ते यत्र निर्मुक्ता वनवासाय केशव ॥ 5-81-28(34657)
एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन ।
त्रायस्व पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवान् ॥ 5-81-29(34658)
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।
श्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ॥ 5-81-30(34659)
धिक्पार्थस्य धनुष्मत्तां भीमसेनस्य धिग्बलम्।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ 5-81-31(34660)
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि।
धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् ॥ 5-81-32(34661)
वैशम्पायन उवाच। 5-81-33x(3635)
इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम्।
सुनीलमसितापाङ्गी सर्वगन्धादिवासितम् ॥ 5-81-33(34662)
सर्वलक्षणसंपन्नं महाभुजगवर्चसम् ।
केशपक्षं वरारोहा गृह्व वामेन पाणिना ॥ 5-81-34(34663)
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी ।
अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् ॥ 5-81-35(34664)
अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः।
स्मर्तव्यः सर्वकार्येषु परेषां सन्धिमिच्छताम् ॥ 5-81-36(34665)
यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ ।
पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः ॥ 5-81-37(34666)
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन ।
अभिमन्युं पुरस्कृत्य योत्स्यन्ते कुरुभिः सह ॥ 5-81-38(34667)
दुःशासनभुजं श्यामं संछिन्नं पांसुकुण्ठितम्।
यद्यहं तु न पश्यामि का शान्तिर्हृदयस्य मे ॥ 5-81-39(34668)
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे।
विधाय हृदये मन्युं प्रदीप्तमिव पावकम् ॥ 5-81-40(34669)
विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् ।
योऽयमद्य महाबाहुर्धर्ममेवानुपश्यति ॥ 5-81-41(34670)
इत्युक्त्वा बाष्परुद्धेन कण्ठेनायतलोचना ।
रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् ॥ 5-81-42(34671)
स्तनौ पीनायतश्रोणी सहितावभिवर्षती।
द्रवीभूतमिवात्युष्णं मुञ्चन्ती वारि नेत्रजम् ॥ 5-81-43(34672)
तामुवाच महाबाहुः केशवः परिसान्त्वयन्।
अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ॥ 5-81-44(34673)
एवं ता भीरु रोस्त्यन्ति निहतज्ञातिबान्धवाः।
हतमित्रा हतबला येषां क्रुद्धाऽसि भामिनी ॥ 5-81-45(34674)
अहं च तत्करिष्यामि भीमार्जुनयमैः सह ।
युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ॥ 5-81-46(34675)
धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः।
शेष्यन्ते निहता भूमौ श्वसृगालादनीकृताः ॥ 5-81-47(34676)
चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत्।
द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ॥ 5-81-49a` शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्।'
सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् ।
हतामित्राञ्श्रिया युक्तानचिदाद्द्रक्ष्यसे पतीन् ॥ ॥ 5-81-48(34677)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकाशीतितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-81-11 प्रतिसमासितुं प्रतिपक्षतया स्थातुम् ॥ 5-81-15 समर्थं युक्तम् ॥ 5-81-17 प्रमृतं प्रदत्तं च तदग्रं च तस्य भोक्ता प्रसृताग्रभुक् ॥ 5-81-33 मृदुसंहारं वेणीरूपेण समाहृतमपि मृदुम्। वृजिनाग्रं कुटिलाग्रं केशवत्सूक्ष्माग्रं वा। वृजिनः कुटिलेऽन्यवदिति विश्वः। सुदर्शनं रमणीयम् ॥ 5-81-45 रोत्स्यन्ति रोदिष्यन्ति ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.